Lovely verses with translation in English !!!!!!!!!! Madhurastakam - The beauty of Lord Sri Krishna - Vallabha acharya
।। मधुराष्टक् ।। अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ।। १।। वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् । चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ।। २।। वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ । नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ।। ३।। गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् । रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ।। ४।। करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरम् । वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ।। ५।। गुञ्जा मधुरा बाला मधुरा यमुना मधुरा वीची मधुरा । सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम् ।। ६।। गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरम् । दृष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम् ।। ७।। गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा । दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ।। ८।। ।। इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं सम्पूर्णं ।। [video=youtube;Tan_Vsmlsso]http://www.youtube.com/watch?v=Tan_Vsmlsso[/video]
My dear aspundir Wow....Beautiful video !!!!!!!!!!!!!!!! cheers Thank you so so much for sharing this....!!!!!!!!! God Bless you !!!!!!!!!!!!
Dear sritas aunty, viji aunty , vjbunny and kalyanishanthi Thank you SO much !!!!!!!!!!!! God Bless you !!!!!!!!!!!